Proofing

This page has not been fully proofread.

सर्गः १६ ]
 
श्रीमदाचार्याणां शारदापीठवासवर्णनम्
 
आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
 
177
 
९९
 
विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता
भिक्षुक्ष्मापतिना किमन्यदधुना सौजन्यमान्यताम् ॥
पारिकाङ्गीश्वरोऽप्यापदुद्धारकं सेवमानातुलख स्तिविस्तारकम् ।
पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥ १००
तत्रातिशीतार्दित शिष्य सङ्घसंरक्षणायातुलितप्रभावः ।
 
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकर प्रधानः ॥
 
१०१
 
कर्मन्दिवृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् ।
प्रावर्तयत्प्रथयती यतिनाथकीर्ति याद्यापि तत्र समुदञ्चति तप्ततोया ॥
 
इति कृतसुरकार्ये नेतुमाजग्मुरेनं
 
रजत शिखरशृङ्गं तुङ्गमीशावतारम् ।
 
विधिशतमख चन्द्रोपेन्द्रवाय्वग्निपूर्वाः
 
सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥ १०३
 
विद्युद्वल्ली नियुतसमुदारब्धयुद्धैर्विमानैः
 
संख्यातीतः सपदि गगनाभोगमाच्छादयन्तः ।
 
स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
 
मन्दारोत्यैः कुसुमनिचयैरनुवन्नर्चयन्तः ॥
 
भवानाद्यो देवः कवलितविषः कामदहन:
 
पुरारातिर्विश्वप्रभवलयहेतुस्त्रिनयनः ।
 
यदर्थं गां प्राप्तो भवमथन वृत्तं तदधुना
 
१०४
 
तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ॥ १०५
उन्मीलद्विनयप्रधान सुमनोवाक्यावसाने महा-
 
देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
 
शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा-
 
दुक्षा शारदवारिदुग्धवरटाहङ्कारहुङ्कारकृत् ॥ १०६