Proofing

This page has not been fully proofread.

176
 
श्रीमच्छङ्करदिग्विजये
 
कद्वैताद्वैतवार्ता क्षपणकविवृतिः कापि पापण्डखण्ड-
ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥
ततो दिविषदध्वनि त्वरितमध्वराशावली-
धुरन्धरसमीरितत्रिदशपाणिकोणाहनः ।
 
अरुन्द्ध हरिदन्तरं स्वरभरैर्भ्रमत्सिन्धुभि-
 
घनाघनघनारवमवन्धुभिर्दुन्दुभिः ॥
 
[ षोडशः
 
९१
 
कचभरवहनं पुलोमजायाः कतिचिदहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥ ९२
 
इति मुनिरतितुष्टोऽव्युष्य सर्वज्ञपीठं
 
निजमतगुरुतायै ना पुनर्मानहेनीः ।
कतिचन विनिवेश्याथर्ण्यशृङ्गाश्रमादौ
 
मुनिरथ वदरीं स पाप कैश्वित्स्व शिष्यैः ॥
 
दिवान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः ।
कृपया पदिशन्स्वसूत्रभाष्ये विजितत्या जिन सर्वदर्शनेभ्यः ॥
नितरां यतिराडुडुराजकरमकर प्रचुरप्रसरस्वयशाः ।
स्वमयं समयं गमयन्रमयन्हृदयं सदयं सुधियां शुशुभे ॥
एवंप्रकरैः कलिकल्मषन्नैः शिवावतारस्य शुभेश्वरित्रः ।
द्वात्रिंशदत्युज्ज्वलकीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥
भाष्यं भ्रूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं
हन्ताहन्ता समन्तात्कुप्रतिनतिकृता खण्डिता पण्डितानाम् ।
सद्यो विद्यातिताऽसौ विषयविमथनमुक्तिपद्याऽनवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥
हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा
 
मुक्ताहारपटीरहीरविहर भी हारतारानिभैः ।
 
कारुण्यामृतनिझरैः सुकृतिनां दैन्यानलः शुन्यतां
 
९.३
 
९४
 
९.५
 
९६
 
नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥ ९८