Proofing

This page has not been fully proofread.

174
 
श्रीमच्छङ्करदिग्विजये
 
पदार्थभेद: स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।
स ईशवादीत्युदितेऽभिनन्द्य नैयायिकोऽपि न्यनृतन्निरोधात् ॥
 
[पोडशः
 
७०
 
तं कापिलः प्राह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्ववित्वान्नो चेलवेशस्तव दुर्लभः स्यात् ॥ ७१
सा विश्वयोनिर्वहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२
ततो नदन्तो न्यरुवन् सगर्वा दत्त्वा परीक्षां व्रज धाम देव्याः ।
बौद्धास्तथा संमथिताः पृथिव्यां बाह्यार्थविज्ञानकशून्यवादः ॥ ७३
बाह्यार्थवादद्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च किं विभेदकं भवन्मताद्ब्रूहि ततः परं व्रज ॥ ७४
सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं वितरोऽक्षिगम्यम् ।
तयोस्तयोर्भङ्गुरताऽविशिष्टा भेद: कियान्वेदनवेद्यभागी ॥
विज्ञानवादी क्षणिकत्वमे पामङ्गीचकारापि बहुत्वमेपः ।
वेदान्तवादी स्थिरसंविदेके उङ्गीचकारेति महाविशेषः ॥
 
७९
 
७६
 
अथाब्रवीदिग्वसनानुसारी रहस्यमेकं वद सर्वविचत् ।
यदस्तिकायांत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७
 
तत्राsss देशिकवर: शृणु रोचते
 
चेजीवादिपञ्चमी मुदाहरन्ति ।
 
तच्छन्दवाच्यमिति जैनमनेऽप्रशस्ते
 
यद्यस्ति वोद्धमपरं कथयाऽऽशु तन्मे ॥
 

 
दत्तोत्तरे वादिगणे तु बाह्ये बाण कश्चिक्किल जैमिनीयः ।
शब्दः किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ॥ ७९
नित्या वर्णाः सर्वगाः श्रोत्रवेद्या यत्तद्र शब्दजालं च नित्यम् ।
द्रव्यं व्यापीत्यब्रुवञ्जमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः ॥ ८०