2026-04-30 05:37:56 by ambuda-bot
This page has not been fully proofread.
सर्गः १६ ]
श्रीमदाचार्याणां शारदा पीठवासवर्णनम्
वादिवातगजेन्द्र दुर्मदघटा दुर्गर्वसङ्कर्षण-
श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ।
दूरं गच्छत वादिदुः शठगजाः संन्यासदंष्ट्रायुधो
वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥
करटनटान्तवान्तमदसौरभ सारभर-
स्खलद लिसंभ्रमत्कलभकुम्भविज म्भवः ।
हरिरिव जम्बुकानमददन्तगजान्कुजना-
नपि खलु नाक्षिगोचरयतीह यतितकान् ॥
संश्रावयन्नध्वनि देशिकेन्द्र: श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाट मुद्धा निवेष्टुकामं ससंभ्रमं वादिगणां न्यरौत्सीत् ॥
अयात्रवीद्वादिगणः स देशिकं किमर्थमेवं बहुसंभ्रमक्रिया ।
यत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥
173
६०
६१
६२
६३
यः कश्विदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छा दत्त्रा परीक्षां व्रज देवतालयम् ॥ ६४
षड्भाववादी कणभुङ्यपतस्थः पप्रच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाजः परमाणुयुग्माज्जातं हि सूक्ष्मं द्वयणुकं मतं नः ॥ ६५
यत्स्यादत्वं तदुपाश्रितं तज्जायेत कस्माद्वद सर्वविचेत् ।
नो लत्वं तव वक्तुमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ॥
या द्वित्वसंख्या परमाणु निष्ठा सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥
तत्रापि नैयायिक आत्तगर्वः कणादपक्षाच्चरणाक्षपक्षे ।
मुक्तेर्विशेषं वद सर्वविच्चन्नो चेत्प्रतिज्ञां त्यज सर्ववित्वे ॥
अत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसं वित्सहिता विमुक्तिः ॥
६६
६७
६८
६९