Proofing

This page has not been fully proofread.

172
 
श्रीमच्छङ्करदिग्विजये
 
[ षोडशः
 
५०
 
५१
 
इत्याकर्ण्याब्रीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।
द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥ ४८
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुः सुखार्काः ।
श्रुत्वेति गोविन्दमुखात्महृष्य हगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९
इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेषमस्मै ।
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥
मत्कारिकाभावविबोधितादृङ्माण्डूक्यभाष्यश्रवणो त्यहर्षः ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥
स माह पर्यायशुकर्षमीक्ष्य भवन्तमद्राक्षम तिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥
तथेति सोऽन्तर्धिमपास्त मोहे गते चिरञ्जीविशुनावथासौ ।
वृत्तान्तमेतं समुदाऽऽश्रवेभ्यः संश्रावयंस्तां क्षणदामनैषीत् ॥ ५३
अथ नद्यामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं विधिवत्स शिष्यैः ।
तीरे निदिध्यासनकालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥ ५४
जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥ ५५
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्रारोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्मवेष्टुं क्षमन्ते ॥ ५६
प्राच्या: प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तदद्वारमुद्घाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥ ५७
वार्तापत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।
 
काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥ ५८
द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।
तां किंवदन्तीं विफलां विधातुं जगाम देवीनिलयाय हृष्यन् ॥ ५९