Proofing

This page has not been fully proofread.

श्रीमदाचार्याणां शारदापीठवासवर्णनम्
 
171
 
३६
 
३७
 
३८
 
सर्गः १६]
आर्यस्यायो गौढपादस्य पादावभ्यर्थ्यासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः प्रहस्तस्थावग्रतः प्राञ्जलिः सन् ॥
सिञ्चनेनं क्षीरवाराशिवीची साचिव्यायाऽऽसन्नयन्नैः कटाक्षैः ।
दन्तज्योत्स्नादन्तुराचापि कुर्वन्नाशाः सूक्ति सन्दधे गौढपादः ॥
कच्चित्स वेत्सि गोविन्दनान्नो हृद्या विद्या संमृदुद्धारकृया ।
कच्चित्तत्वं तत्त्वमानन्दरूपं नित्यं सन्चिन्निर्मलं वेत्सि वेद्यम् ॥
भक्त्या युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः ।
कच्चित्तवज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥ ३९
कच्चिन्नित्याः शत्रवो निर्जितास्ते कच्चित्प्राप्ताः सद्गुणाः शान्तिपूर्वा: ।
कच्चिद्योगः साधितोऽष्टाङ्गयुक्तः कश्चिच्चित्तं साधुचित्तत्वगं ते ॥ ४०
इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्करः साधुशीलः ।
भक्त्युद्रेकाद्वाष्पपर्याकुलाक्षो बन्नन्मूर्धन्यञ्जलिं व्याजहार ॥
यद्यत्पृष्टं स्पष्टपाचार्य पादैस्तत्तत्सर्वं भो भविष्यत्यवश्यम् ।
कारुण्यान्धेः कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुदुर्लभं किंनु जन्तोः ॥
मूको वाग्मी मन्दधी: पण्डिताय्यः पापाचारः पुण्यनिष्ठेषु गण्यः ।
कामासक्तः कीर्तिमान्नि. स्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥ ४३
लेशं वाऽपि ज्ञातुमीष्टे पुमान्कः सीमातीतस्याद्य युष्मन्महित्रः ।
तुष्ट्वाऽत्यन्तं तच विद्योपदेष्टा जातः साक्षाद्यस्य वैयासकिः सः ॥
आजानात्मज्ञानसिद्धं यमारादौदासीन्याज्जातमात्रं व्रजन्तम् ।
प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्यः पृष्ठतोऽनुप्रपेदे ॥
Tessa योगभाष्यत्रा पित्रा प्राप्तः स प्रपञ्चकभावम् ।
सर्वादन्ताशीलनाद्योगभूमेः प्रत्याक्रोशं प्रातनोदृक्षरूपः ॥
तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहृद्यम् ।
दैवादेतद्दीनदृग्गोचरवेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥
 
४१
 
४२
 
४४
 
४५
 
४६
 
४७