2026-04-30 05:37:56 by ambuda-bot
This page has not been fully proofread.
170
श्रीमच्छङ्करदिग्विजये
जनपदो विरलो गदद्दारकैर्बहुलरुग्णजनः प्रकृतेरतः ।
मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥
पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।
जनितमध्यफलं भिषजं बिना भिषगसौ हरिरेव तनुभृतः ॥
[ षोडशः
२४
२५
यदुदितं भवता वितथं न तत्तदपि न क्षमते ब्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६
इति निगद्य ययुर्भिषजां गणा विमनसः पटवोsपि निजान् गृहान् ।
अथ मुनिर्विजन्ममतां तनौ गुरुवरो गुरुदुः खमसोढ सः ॥
प्रथितैरवनौ परः सहसैरगदंकार चयैरथाचिकित्स्ये ।
प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ २८
स्मरशासन शासनान्नियुक्तौ द्विजवेषं प्रविधाय भूमिमाप्तौ ।
उपसेदतुरश्विनौ च देव सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥
२९
३१
यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुषा ।
इति तं समुदीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् ॥ ३०
तदनु स्वगुरोर्गदापनुच्यै परमन्त्रं तु जजाप जातमन्युः ।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनुकम्पिनाऽब्जपादः ॥
अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः ।
मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ॥
स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापूरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छद्योगांशानं गौडपादाभिधानम् ॥ ३३
पाणी फुलवेतपङ्केरुही मैत्रीपात्रीभूतभासा घटेन ।
आराद्राजत्कैरवानन्द सन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥
३२
३४
पाणौ शोणाम्भोजबुद्धया समन्तादभ्राम्यद्भूङ्गीमण्डली तुल्यकुल्याम् ।
अङ्गुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठायेणासकृद् भ्रामयन्तम् ॥ ३५