2026-04-30 05:37:56 by ambuda-bot
This page has not been fully proofread.
सर्गः १६]
श्रीमदाचार्याणां शारदापीठवासवर्णनम्
सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै ।
स्वज्जीवनेनैव हि जीवनं नः पाथश्वराणां जलमेव तद्धि ॥
169
१२
स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥ १३
निर्बन्धतो गुरुवरः प्रददावनुज्ञां दिग्भ्यो भिषग्वरसमानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययुः महृष्टाः शिष्याः प्रवासकुशळा हरिभक्तिभाजः ॥
प्रायो नृपं कविजना भिषजां वदान्यं वित्तार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ॥
तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धयै कचिद्राजपुरे भिषग्भिः ।
अवाप्य सन्दर्शनभाषणानि समानयंस्तान गुरुवर्यपार्श्वम् ॥
१६
१८
१९
ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः ।
यदत्र कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदा गौ सः ॥ १७
उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।
यदिदमस्य विधेयमिदं ध्रुवं वदत रोगतमस्तिमिरारयः ॥
चिरमुपेक्षतवानहमेत दुरितजोऽयमिति प्रतिभाति मे ।
तदपि शिष्यगणैर्निरहिंस्यहं प्रहितवान् भवदानयनाय तान् ॥
निगदिते मुनिति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः ।
न च शशाम गर्दा बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥
अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् ।
अटल गेहमगात्समय बहुर्गदहृते भवतामित ईयुषाम् ॥
दिनचयं गणयन पथिलोचनः प्रियजनो निवसेद्विरहातुरः ।
नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥
रुषितवान्न च वो तिरेन्नृपः फणितजीवितमक्षतशासनः ।
तुरगवन्नृपतिश्चलमा सो भिषजमन्यमसौ विदधीत वा ॥
२०
२१
२२
२३