2026-04-30 05:37:55 by ambuda-bot
This page has not been fully proofread.
168
श्रीमच्छङ्करदिग्विजये
अथ षोडशः सर्गः ॥ १६ ॥
श्रीमदाचार्याणां शारदापीठवासवर्णनम् ॥
[ षोडशः
१
अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।
स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥
स ततोऽभिचचार मृढबुद्धिर्यतिशार्दूलममुं प्रहरोषः ।
अचिकित्स्यतमो भिषग्भिरस्मादजनिष्टास्य भगन्दराख्यरोगः ॥
अचिकित्स्य भगन्दराख्यरोग पसरच्छोणितपङ्कियवशाय्याः ।
अजु उप्स विशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥ ३
भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयशनैः ।
नोपेक्षणीयो भगवन् महामयस्वपीडितः शत्रुरिवर्द्धिमान्नुयात् ॥ ४
महानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽर्तिरीदृशी ।
पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥ ५
चिकित्सका व्याधिनिदानकोविदाः संपच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्संपति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥ ६
उपेक्षमाणेऽपि गुरावनास्था शरीरकादौ सुखमात्मनीश्वरैः ।
नोपेक्षणीयं गुरुदुः खश्वभिर्दुःखं विनेयैरिति शास्त्रनिश्चयः ॥
स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः ।
तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा बाञ्छति पूज्य ना मनः ॥ ८
व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात् क्षपणीय एवः ।
अभुज्यमान: पुरुषं न मुञ्चेज्जन्मान्तरेऽपीति हि शास्त्रत्राद: ॥
व्याधिर्द्विधाऽसौ कथितो हि विद्भिः कर्मोद्भवधातुकृतस्तथेति ।
आद्यक्षयः कर्मण एव लीनाच्चिकित्सया स्याच्चरमादितस्य ॥ १०
संक्षीयतां कर्मण एवं संक्षयाद्व्याधिः प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेमि किञ्चन ॥