2026-04-30 05:37:55 by ambuda-bot
This page has not been fully proofread.
सर्गः १५]
आचार्यकृत दिग्विजयवर्णनम्
बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्रितः
कोणे द्राणमुग्व्यलीयत तमः स्तोमावृतो गौतमः ।
भग्नोऽसौ कपिल: पलायत ततः पातञ्जलाश्वाञ्जलिं
167
१६९
चक्रस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥
हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
सेवन्ते तं विचित्रा यतिधरणिपतेः शूरता वा दया वा ॥ १७०
शान्त्याद्यर्णववाडवानलशिखा सत्याभ्रवात्या दया-
ज्योत्स्नादर्श निशाऽथ शान्तिनलिनीराकाशशाङ्कयुतिः ।
आस्तिक्यद्रुपदावपावक नवज्वालावली सत्कथा-
हंसी माडखण्ड दण्डिपतिना पाखण्डवाङ्मण्डली ॥ १७१
अद्वैतामृतवर्षिभिः परगुरुव्याहारधाराधरैः
कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्त तापत्रयैः ।
दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षु संपादितं
शान्तं संपति खण्डिताश्च निविडाः पाखण्डचण्डातपाः ॥ १७२
शान्तानां सुभटाः कपालिकपतद ग्राहग्रहव्यापृता:
काणादमतिहारिणः क्षपणकक्षोणीश्वैतालिकाः ।
सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशांङ्करा
नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३
इति सकलदिशासु द्वैतवार्ता निवृत्तौ स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं रविरिव तिमिरौघे संप्रशान्ते महः स्वम् ॥
इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥
आदितः श्लोकाः 1736.