2026-04-30 05:37:54 by ambuda-bot
This page has not been fully proofread.
166
श्रीमच्छङ्करदिग्विजये
[ पञ्चदशः
अभिभूय मुरारिमिश्रवर्यं सहसा चोदयनं विजित्य वादे ।
अवधूय च धर्मगुप्त मिश्रं स्वयशः प्रौढमगापयत्स गौडान् ॥
पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन् कलौ
बुद्धस्य प्रविभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
शास्त्रास्त्राय विनिन्दकेन कुधिया कूटप्रवादाग्रहा-
निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥
शाक्तैः पाशुपतैरपि क्षपणकैः कापालिक वैष्णवै-
रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिवैदिकम् ।
मार्ग रक्षितुमुग्रवादिविजयं नो मानहेतोर्व्यधा-
त्सर्वज्ञो न यतोऽस्य संभवति सम्मान ग्रहग्रस्तता ॥
दिष्टे पङ्कज विष्टरेण जगतामाद्येन तत्सूनुभि-
निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाद्यैरपि ।
श्रोताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्
१६२
१६३
१६४
प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वक्षुण्णताम् ॥ १६५
शान्तिर्दान्तिविरागते परतिः क्षान्तिः परैकाग्रता
श्रद्धेति प्रथिताभिरेषिततनौ षड्वक्तवन्मातृभिः ।
भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल-
स्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुर्तः ॥ १६६
यत्राऽऽरम्भजकाहलाकलकलैर्लोकायतो विद्रुतः
काणाः काणभुजास्तु सैन्यरजसा सांख्यैर्धृताऽसांख्यधीः ।
युद्ध्वा तेषु पलायितेषु सहसा योगाः सहैवाद्रवन्
को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥
उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः
पूर्व मण्डनखण्डने समुदभूयो डिण्डिमाडम्बरः ।
जाता: शब्दपरम्परास्तत इमा: पाखण्डदुर्वादिना-
मद्य श्रोत्रतटात्रीषु दधते दावानलज्वालताम् ॥
१६७
१६८