2026-04-30 05:37:54 by ambuda-bot
This page has not been fully proofread.
सर्गः १५]
आचार्यकृत दिग्विजयवर्णनम्
163
तद सिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।
भ्रमधर्मामतित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६
अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।
परिणाम इहाssदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥ १२७
ननु रक्ततमप्रम्नयोगात् स्फटिके संस्फुरणं यथाऽरुणिम्नः ।
भ्रमसंयुतचित्तयो गतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥ १२८
इति चेयमीरयाssत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।
प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥ १२९
चरमोऽपि न युज्यतेऽपरोक्ष पथनस्यानुपपद्यमानतायाः ।
परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥ १३०
असभागतयात्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्धयाकृतितश्चिदात्मनोऽस्य ॥
न हि नित्यचिदाश्रयपतीचः परिणामः पुनरन्यचित्स्वरूपः ।
गुणयो: समुदायगत्ययोगाद्गुणतावान्तरजातित: सजात्यो ॥
युगपत्समवैति नो हि शौक्यद्वयकं यत्र च कुत्रचिद्यदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसन्नोदितदुष्टतेति चेन्न ॥ १३३
कटकाश्रयभूतदीप्तो रुचकाधारकभाववत्तथैव ।
१३१
१३२
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥ १३४
न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्तयसंभवेऽपि ।
भ्रमसंज्ञितवस्त्वसंभवेन
भ्रमसंपादितसंस्कृतेरयोगात् ॥ १३५
अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः ।
तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ १३६
न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्वयोगात ॥ १३७