2026-04-30 05:37:54 by ambuda-bot
This page has not been fully proofread.
162
श्रीमच्छङ्करदिग्विजये
[पञ्चदशः
११७
११८
११९
ननु गोल उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।
अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥ ११४
इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः ।
उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसत्यभावात् ॥ ११५
न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संप्रसक्त्यभावः ।
चरमोsपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६
स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।
तदिहोदित हेतु सच्चतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥
ननु भातितरामुपाधिरत्वादलदेतद्व्यवहर्तृतेति चेन्न ।
अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥
ननु तद्वयवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ ।
श्रुतिवाक्यगतेन संप्रतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥
तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।
तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥ १२०
ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ।
प्रथितस्थल पञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥ १२१
इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।
उत वा पृथगेव तत्र नाऽऽद्यो मिलिताः पञ्च न हि कचिद्यतः स्युः ॥
चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकभावस्य च तन्त्रता न किं स्यात् ।
न च योजकगौरवं च दोषः प्रकृते तस्य तत्रापि सम्मतत्वात् ॥ १२३
अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।
अपि सोऽत्र न दुर्लभ श्चिदात्माङ्गकयोः कारणकार्य भावभावात् ॥ १२४
न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।
तदभेदत एव सर्वकस्याप्युपपत्तेरिह जीवकार्यतायाः ॥ १२५