Proofing

This page has not been fully proofread.

सर्गः १५]
 
आचार्यकृत दिग्विजयर्णनम्
 
161
 
१०५
 
न च तत्र हि बाधकस्य सत्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् ।
इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेव बाधकत्वात् ॥ १०२
अधिपत्यपि चित्तवर्ति तत्स्याद्यदि चाज्ञानमिदं हृदाश्रितं स्यात् ।
तदिहास्ति न मानः क्तरीत्या प्रकृतेर्दृश्यविशिष्टनिष्ठतायाम् ॥ १०३
ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिह्ननेति ।
प्रतिबन्धकशुन्यता तु सुप्तेः परमात्मैक्यगतः सतेति वाक्यात् ॥ १०४
न च तत्र च तत्स्थितिप्रतीतिः सति संपद्य विदुर्न हीति वाक्यात् ।
श्रुतिर्गस्तदधिक्षिपत्यभावप्रतिपत्तेर्न च निह्नवोऽत्र नेति ॥
किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् ।
अनिवर्तक सच्चतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥
न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।
तदिहाप्रतिबन्धकत्वमस्य प्रभवेत् किंत्विह तद्भ्रमाग्रहादि ॥ १०७
इति चेदिदमीर भ्रमः को मनुजोऽहं स्विति शेमुषीति चेन्न ।
अतिविस्मृतिशीलता तवाही गदितुः सर्वपदार्थसङ्करस्य ॥ १०८
प्रमितत्वमुपाश्रयन् प्रतीतेरमुकः खण्ड इति स्वाशास्त्रसिद्धात् ।
भिदभिदद्वयगात्तरत्व हेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ॥ १०९
अनुमानमिदं तथा च सिद्धं विपता धीः प्रमितिर्भिदाभिदत्वात् ।
इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥ ११०
ननु संहननात्मधीः प्रमाणं न भवत्येव निषिद्धयमानगत्वात् ।
इदमिति प्रतिपन्नरूप्यधीवत्यवला सत्प्रतिपक्षतेति चेन्न ॥ १११
व्यभिचारयुतत्वतोऽस्य खण्डः पशुरित्यत्र तदन्यधीस्थमुण्डे ।
इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमच्यात् ॥ ११२
ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।
इति चेन्न विवक्षितस्य हेतोर्व्यभिचारात् पुनरप्यमुत्र चैव ॥
 
११३