Proofing

This page has not been fully proofread.

160
 
श्रीमच्छङ्करदिग्विजये
 
[पञ्चदशः
 
अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।
बहुभिर्वचनैरुदारवृत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥
अनयोरतिचित्रशब्दशय्यां दधतो दुर्नय भेदशक्तयुक्त्योः ।
पटुवादमृधेऽन्तरं तटस्था: श्रुतवन्तोऽपि न किञ्चनान्वविन्दन् ॥ ९१
अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरज्जडाब्जभूतम् ।
बहुधाss क्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२
अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्मिवरः प्रगल्भयुक्त्या ।
श्रुतिशीर्षवचः प्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥
प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिर्जीव परात्मभेदिकेति ।
न भिनत्ति हि जीवगेगा दोभयभावस्य तदुत्तरोद्भवत्वात् ॥
मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिविम्वविम्बभेदी ।
कथमीरय वक्तमात्रगश्चेश्च्चि तिमात्राश्रिदियं तथेति तुल्यम् ॥
चितिमात्रगप्रकृत्युपाधेर्जहतो बिम्बपरात्मपक्षपातम् ।
प्रतिविम्बितजीव पक्षपातो मुकुरस्येव विरुध्यते न जातु ॥
 
९३
 
९४
 
९५
 
९६
 
९८
 
अविकारिनिरस्तसङ्गबोधैकरसात्माश्रयता न युज्यतेऽस्याः ।
अत एव विशिष्टसंश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥ ९७
न हि मानकथा विशिष्टत्वे भवदापादित ईक्षते तथा हि ।
अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्रुते तथा चेत् ॥
अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्टनिष्ठता स्यात् ।
अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥
ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।
अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूति: ॥
इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचार: ।
न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ॥
 
९९
 
१००
 
१०१