Proofing

This page has not been fully proofread.

सर्गः १५ ]
 
आचार्यकृत दिग्विजयवर्णनम्
 
मकरध्वज विद्विडाप्ति विद्वाञ्श्रमहत्पुष्प सुगन्धवन्मरुद्भिः ।
अगरूद्भवधूपधूपिताशं स महाकालनिवेशनं विवेश ॥
भगवानभिवन्द्य चन्द्रमौलि मुनिवृन्दैरभिवन्द्यपादपद्मः ।
श्रपहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरमभावः ॥
कवये कथयास्मदीय वार्तामिह सौम्येति स भट्टभास्कराय ।
विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥
अभिरूपकुलावतंसभूतं बहुवाव्याकृतसर्ववेदराशिम् ।
तमयत्न निरस्तदुः सपत्नं प्रतिपद्येत्यमुवाच वावदुकः ॥
जयति स्म दिगन्तगीतकीर्तिर्भगवाञ्शङ्करयोगिचक्रवर्ती ।
मथयन् परमाद्वितीयतत्त्रं शमयंस्तत्परिपन्थिवादिदर्पम् ॥
स जगाद बुधाग्रणीर्भवन्तं कुमतोत्प्रेक्षितसूत्रवृत्तिजालम् ।
अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥
तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।
अथवाऽस्मदुग्रतर्क वज्रपतिघातात् परिरक्ष्यतां स्वपक्ष: ॥
इति तामवहेलपूर्ववर्णा गिरमाकर्ण्य तदा स लब्धवर्णः ।
यशसां निधिरीषदात्तरोषस्तमुवाच प्रहसन् यतीन्द्रशिष्यम् ॥
ध्रुवमेष न शुश्रुवानुदन्तं मम दुर्वादिवचस्ततीनुदन्तम् ।
परकीर्तिविसारानदन्तं विदुषां सूर्यसु नानदत्पदं तम् ॥
मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमल्पतामुपैति ।
कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥
इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ मावमंस्थाः ।
न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वजमणिप्रभेदनाय ॥
स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदव्यः ।
सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥
 
159
 
७८
 
७९
 
८०
 
८१
 
८२
 
८३
 
८४
 
८५
 
८६
 
८७
 
८८
 
८९