Proofing

This page has not been fully proofread.

156
 
श्रीमच्छङ्करदिग्विजये
 
[ पञ्चदशः
 
प्रशस्तिदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मत्वात् ॥ ४३
रवितत्प्रतिबिम्बयरिवाभितामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिविम्बितस्य मिथ्यात्व गते व्यमशिवादिदेशिकोत्त्या ॥ ४४
मुकुरस्यमुखस्य बिम्बवक्ताद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५
न च मायिकजीवनिष्टमोढ्येश्वर सार्वज्ञविरुद्ध धर्मबाधात् ।
उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥
न हि मानशतैः स्थितस्य बाधाऽपरथा दत्तजलाञ्जलिर्भिदा स्यात् ।
विपरीत हयत्वगोत्वबाधाद्धयपश्वोर्निजरूपकैक्ययुक्त्या ।
 
४६
 
४७
 
४८
 
४९
 
५०
 
यदि मानगतस्य हानमिष्टं न भवेत्तार्ह न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीव सर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥
इति युक्तितैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवचः प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥
अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
शृणु तत्वमसीति संप्रदायश्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥
ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोधः ॥
यदिोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटक तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥
ननु मौढ्य समस्त वित्त्वधर्मान्वितजीवेश्वररूपतोऽतिरिक्तम् ।
उभयोः परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥ ५३
इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।
तदधिष्ठितसत्य वस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥ ५४
 
५१
 
५२