Proofing

This page has not been fully proofread.

सर्गः १५ ]
 
आचार्यकृत दिग्विजयवर्णनम्
 
155
 
३१
 
३२
 
३३
 
३४
 
३५
 
३६
 
बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥
अवगाह्य सरित्पतिं स तत्र प्रियमासाद्य तुषारशैलपुत्र्याः ।
स्तवसत्तममद्भुतार्थचिंत्र रचयामास भुजङ्गवृत्तरम्यम् ॥
तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।
हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥
भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीषुरार्यपादान् ।
स्ववशीकृत भट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥
इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहारः ।
शिवतत्परसूत्रभाष्यकर्ता प्रहसन् वाचमुवाच शैववर्यः ॥
सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।
पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥
परपक्षतमित्रचञ्चदर्कैर्मम तर्कैर्बहुधा विशीर्यमाणम् ।
अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोप: ॥
सितभूतितरङ्गिताखिलाङ्गैः स्फुटरुद्राक्षकलापकम्रकण्ठैः ।
परिवीतमधीतशैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥
अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्षमेष: ।
शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्र पद्धा ॥
भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे ।
इति देशिकपुङ्गवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीशः ॥
सुमते तव कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ।
इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुखस्तदाऽऽसीत् ॥ ४१
परपक्षविसावली मरालैर्वचनैस्तस्य मतं चखण्ड दण्डी ।
अथ नीलगल: स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ॥
 
३७
 
३८
 
३९
 
४०
 
४२