2026-04-30 05:37:52 by ambuda-bot
This page has not been fully proofread.
154
श्रीमच्छङ्करदिग्विजये
[पञ्चदशः
१९
२२
२३
२४
अवनीभृति योधयत्यरींस्तांस्त्वरयैकत्र ततोऽन्यतो नियुक्ताः ।
क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥
अवलोक्य कपालिसङ्गमाराच्छमनानीक निकाशमापतन्तम् ।
व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥ २०
असितोमरपट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताट्टहासान् ।
यतिराट् स चकार भस्मसात्तान्निजहुङ्कारभुवाऽग्निना क्षणेन ॥ २१
नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्तूपमैः ।
रणरङ्गभुवं सहस्रसङ्घैः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥
तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य ।
अतिमात्रविदूयमानचेता यतिराजस्य समीपमाप भूयः ॥
कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्य धुनैव कर्मणोऽस्य ।
इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥
सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।
स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥
अथ मर्त्यशिरःकपालमाली ज्वलनज्वालजटाछट त्रिशूली ।
विकटकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥
तव भक्तजनद्रहं दृशा सञ्जहि देवेति कपालिना नियुक्तः ।
कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ॥
यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।
अखिलेsपि खिले कुले खलानाममुमानर्चुरलं द्विजाः प्रहृष्टाः ॥
यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।
अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ।
विललास चलत्तरङ्गहस्तैर्नदराजोऽभिनयन्निगूढमर्थम् ।
अवधीरितदुन्दुभिखनेन प्रतिवादीव महान् महारेण ॥
२५
२६
२७
२८
२९
३०