Proofing

This page has not been fully proofread.

सर्गः १५]
 
आचार्य कृतदिग्विजयवर्णनम्
 
153
 
अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण ।
निज शिष्य निरस्तदुष्टबुद्धीन् व्यदधाद्वैरवतन्त्रसावलम्बान् ॥
अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुन्धरा मियासुम् ।
भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरूपः ॥
न हि ते भगवद्यशः सहन्ते निहितेर्ष्याः श्रुतिषु ब्रवीम्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥
इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥ १०
अथ तीर्थकरायणीः प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाय्यः ॥ ११
पितृकाननभस्मनाऽनुलिप्तः करसंप्राप्तकरोटिरात्तशूल: ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ॥ १२
भसितं घृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरः कपालमेतत् ।
हथाशुचि खर्परं किमर्थे न कथंकारमुपास्यते कपाली ॥
नरशी कुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवाचम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टत्रपुर्मुदं प्रयायात् ॥
इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्द्य ।
निरवासयदात्मवित्समाजात् पुरुषः स्वैरधिकारिभिः सुधन्वा ॥
 
.
 
१३
 
१४
 
१५
 
भ्रुकुटीकुटिलाननश्चळोष्ठः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेद्विभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥ १६
रुषितानि कपालिनां कुलानि मलयाम्भोधरभीकरारवाणि ।
अमुना प्रहितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥ १७
अय विपकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा ।
कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान् विमुञ्चन् ॥ १८