2026-04-30 05:37:51 by ambuda-bot
This page has not been fully proofread.
152
श्रीमच्छङ्करदिग्विजये
[ चतुर्दशः
नृप कालटिनामक ग्रहारा द्विजकर्मानधिकारिणोऽय शप्ताः ।
भवताऽपि तथैव ते विधेया बत पापा इति देशिको शिषत्तम् ॥ १७४
पद्माङ्घ्रौ प्रतिपच नष्टविवृति तुष्टे पुन: केरल-
क्षमापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा ।
लब्ध्वा तस्य मुखात् स्वनाटकवराण्यानन्दपाथो निधौ
मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन् प्रतस्थे पुरीम् ॥
इति श्रीमाधवये तत्तीर्थयात्राटनार्थकः ।
संक्षेपशङ्करजये सर्गोऽजनि चतुर्दशः ॥ १४ ॥
आदितः श्लोकाः 1562.
१७५
अथ पञ्चदशः सर्गः
11-24 11
आचार्यकृतदिग्विजयवर्णनम् ॥
अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा ।
ककुभो विजिगीषुरेष सर्वाः प्रथमं सेतुमुदारधीः प्रतस्थे ॥
अभवत् किल तस्य तत्र शाक्तैर्गिरिजाचकपटान्मधुप्रसक्तैः ।
निकटस्थ वितीर्णभूरिमोदस्फुटरिङ्खत्पटुयुक्तिमान विवादः ॥
स हि युक्तिभरैर्विधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् ।
द्विजजातिबहिष्कृताननार्यानकरो लोकहिताय कर्मसेतुम् ॥
अभिपूज्य स तत्र रामनाथं सह पाण्डेयः स्ववशे विधाय चोलान् ।
द्रविडांच ततो जगाम काचीं नगरीं हस्तिगिरेर्नितम्बकाञ्चीम् ॥ ४
सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।
अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥
निजपाद सरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्धान् ।
अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥
५
६