Proofing

This page has not been fully proofread.

सर्गः १४ ]
 
पद्मपादतीर्थयात्रावर्णनम्
 
151
 
गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः ।
निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कुशानौ ॥ १६३
प्रयतेऽहं पुनरेव यदा तां विधातुं बहुधाकृतयत्नः ।
 
न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ॥
कृपापारावारं तव चरणकोणाग्रशरणं
 
गता दीना दूनाः कति कति न सर्वेश्वरपदम् ।
गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे-
 
१६४
 
न्मृषा मा भाषिष्ठा: पदकमल चिन्तावधिरसौ ॥ १६५
 
इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः ।
अमृताब्धिसखैरपास्तमोर्वचनैः सान्त्वयति स्म वल्गुवन्धैः ॥ १६६
विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः ।
विदितः प्रथमं मयाऽयमर्थः कथितश्चाङ्ग सुरेशदेशिकाय ॥
 
पूर्व शृङ्गमारे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी ।
 
१६७
 
सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदायः ॥
 
आश्वास्येत्थं जलजचरणं भाष्यकृत्पञ्चपादी-
 
माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या ।
नैतच्चित्रं परमपुरुषेऽव्याहतज्ञानशक्तौ
 
तस्मिन् मूले त्रिभुवनगुरौ सर्वविद्याप्रवृत्तेः ॥
 
१६९
 
१७०
 
१७१
 
प्रसभं स विलिख्य पञ्चपाद परमानन्दभरेण पद्मपाद: ।
उदतिष्ठद तिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ॥
कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः ।
मुनिवर्यममुं मुदं वितेने निजकौटीर निघृष्टपन्नखाय्यः ॥
प्रथते किमु नाटकी सेत्यमुना संयमिना ततो नियुक्तः ।
अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२
मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।
वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन् व्यजिज्ञपच्च ॥ १७३