Proofing

This page has not been fully proofread.

150
 
श्रीमच्छङ्करदिग्विजये
 
[ चतुर्दशः
 
विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः ।
बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥ १५२
इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौं सुरसद्मसंनिविष्टः ।
चिरकाल वियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥ १५३
गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु ।
अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥
 
भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः ।
बहुधा विहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥
अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।
अप भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥
दग्धमुद्रमुख मुद्रणमन्त्रैर्ध्वस्त तर्कगुरुका पिलतन्त्रैः ।
वर्मितो निगम सारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ॥
खड्गाखङ्गिविहारकल्पितरुजं काणादसेनामुखे
शस्त्राशस्त्रिकृतं श्रमं च विषमं पश्यत्पदानां पदे ।
यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः
सूक्तैौक्तिकवंशमौक्तिकमयैर्नाऽऽपद्यते वर्मितः ॥
 
अथ गूढहृदो यथापुरं मामभिनन्द्याऽऽहितसत्क्रियस्य तस्य ।
 
१५४
 
१५५
 
१५६
 
१५७
 
१५८
 
after निधाय भाष्यटीका महस्याऽऽयमशङ्कितो निशायाम् ॥ १५९
 
युगपर्ययनृत्य दुग्रफालज्वलनज्वालकरालकीलजालः ।
दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ १६०
 
अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः ।
मतिमान्धकरं गरं च भैक्षे व्यधितास्येति विजृम्भते स्म वार्ता ॥ १६१
अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ।
विषमा पुनरीहशी दशा नः किमु युक्ता भवदङ्घ्रिकिङ्कराणाम् ॥ १६२