2026-04-30 05:37:50 by ambuda-bot
This page has not been fully proofread.
सर्गः १४ ]
पद्मपादतीर्थयात्रावर्णनम्
149
इत्थं ब्रुवन्तं तमथो न्यगादीत् पुस्तं गतं बुद्धिरवस्थिता मे ।
उक्त्वा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्यः ॥ १४१
दृष्ट्वा बुद्धिं मातुलस्तस्य भूयो भीतः प्रास्यद्भोजने सन्मनोन्नम् ।
किञ्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तुं केचिदेवं ब्रुवन्ति ॥ १४२
अत्रान्तरेऽन्यैर्निजवच्चरद्भिः स्वैस्तीर्थयात्रां दयितैः सतीयैः ।
अर्थादुपेत्याश्रमतः कनिर्ज्ञातः सखेदैः स मुनिः समैक्षि ॥ १४३
दृष्ट्वा पद्माङ्घ्रि क्रमात् प्रणेमुस्तत्पादाम्भोजीयरेणून दधानाः ।
अन्योन्यं द्रागाददुस्ते ददुश्वाने कानेहो यो गजैक्यान्नपांसि ॥ १४४
वाणीनिर्जितपन्नगेश्वरगुरुपाचेतसा चेतसा
विभ्राणा चरणं मुनेर्विरचितव्यापल्लवं पल्लवम् ।
धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं
रेजेऽन्तेवसतां समष्टिरसुहृत्तत्या हितात्या हिता ॥ १४५
शुश्राव सान्तेवसतां समष्टिः स्वदेशकीयां सुखदां सुवार्ताम् ।
अर्थात् समीपागततः कुतश्चिद् द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ १४६
अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्य विनेयाः ।
कथमपि विदिततदीयसुवार्ताः समधिगताः किल केरलदेशान् ॥ १४७
अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः ।
आकाशलङ्घिवरकेर महीरुहेषु श्री केरलेषु मुनिरास्त चरन् विरक्तः ॥
विचरन्नथ केरलेषु विष्वङ् निजशिष्यागमनं निरीक्ष्य मौनी ।
विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभावः ॥ १४९
सदसत्रविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् ।
कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥ १५०
रजसा सृजसीश सच्चवृत्ति त्रिजगद्रक्षसि तामसः क्षिणोषि ।
बहुधा परिकीर्त्यसे च स त्वं विधिवैकुण्ठ शिवाभिघाभिरेकः ॥ १५१