2026-04-30 05:37:50 by ambuda-bot
This page has not been fully proofread.
148
श्रीमच्छङ्करदिग्विजये
[चतुर्दशः
त्वमग्रणीर्दाशरथे धनुर्भृतां तवानुजस्यापि समो न लक्ष्यते ।
लवङ्गमानामधिपस्य कोटिशो मा मुञ्च मा मुश्च वचो विनार्थम् ॥ १२९
सहाय संपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।
वारां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्र मेनम् ॥ १३०
पुरेव चाहिं पिवामि शुष्केऽत्र तेन प्रतियाहि लङ्काम् ।
एवं मया कीर्तिरुपार्जिता स्याद्वद्धे तु वा तव साऽर्जिता स्यात् ॥
सेतुं वा बन्धयित्वा जहि त्वं दुष्टं चौर्याद्येन सीता हृताऽऽसीत् ।
प्राप्नोषि त्वं कीर्तिमाचन्द्रतारं तेनात्रान्धि बन्धय त्वं कपीन्द्रैः ॥ १३२
इत्थं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वाध ।
तुङ्गैः शृङ्गैर्वानरैस्तेन गत्वा तं हत्वाऽऽजौ जानकीमानिनाय ॥ १३३
तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्नात्वा भक्त्या रामनाथं प्रणम्य ।
तत्र श्रद्धोत्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥ १३४
तन्माहात्म्यं वर्णयन्तं मुनिं तं पप्रच्छैनं कश्चिदेवं विपश्चित् ।
रामेशाख्या किसमासोपपन्ना पृष्टस्त्रेधाऽवोचदेवं समासम् ॥ १३५
रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।
रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ॥ १३६
एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।
अम्भोजाङ्घ्रिस्तैरथ स्तूयमानः कश्चित्कालं तत्र योगीडनैषीत् ॥ १३७
तस्मादार्य: प्रस्थितोऽभूत् सशिष्यस्तीर्थस्नानोपान्तचित्तामलत्वः ।
पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥ १३८
श्रुत्वा किञ्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापेदिवान् सः ।
श्रावं श्रावं मातुलीयस्य तीव्रं दाहं गेहस्यानुकम्पां व्यधत्त ॥ १३९
विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्भुतवहः पतितः प्रमादात् ।
तावान मे सदनदाहकृतोऽनुतापो यावांस्तु पुस्तक विनाशकृतो मम स्यात् ॥