2026-04-30 05:37:50 by ambuda-bot
This page has not been fully proofread.
सर्गः १४ ]
पद्मपादतीर्थयात्रावर्णनम्
147
गच्छन्नसौ फुलमुनेर्जगाम तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥ ११७
तीर्खा समुद्रं जनकात्मजायाः सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रवणा: लवङ्गा न वारिराशौ प्लवनं क्षमन्ते ॥ ११८
सञ्चिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदूरगमेव किञ्चित् ।
संव्याप्नुवज्जगदिदं सुखशीतलं यत्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥
आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकारमदृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ॥
१२०
मध्ये प्रभामण्डल मैक्षताञ्चितं शिवाकृति सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनिं प्राबोधि कुम्भोद्भवमादराज्जनैः ॥ १२१
अगस्त्यदृश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ॥ १२२
समामर्थ्यादिभिरर्चयित्वा रामस्तदङ्घ्रि शिरसा ननाम ।
तूष्णीं मुहूर्त व्यसनार्णवस्थो धृतिं समास्थाय पुनर्बभाषे ॥
दृष्ट्वा भवन्तं पितृमोदे यन्मापगा दुःखमहार्णवस्थम् ।
मन्ये ममात्मापवाकामं वंशो महान्मे तपनात्प्रवृत्तः ॥
न तत्र माहग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्यः ।
सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥
तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुंगवो मे ।
सा चाधुनाशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी !!
समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ।
थथा तथोपायमुदाहरत्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥
इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः ।
वंशद्वये सन्ति नृपा महान्तः संप्राप्य दुःखं परिमुक्तदुःखाः ॥
१२३
१२४
१२५
१२६
१२७
१२८