Proofing

This page has not been fully proofread.

146
 
श्रीमच्छङ्करदिग्विजये
 
ससंरम्भाश्लिष्यत्सुफणितिवघटी कुचतटी-
पटवत्पाटीरागरवनवपङ्काङ्कितहृदः ।
तथाऽप्येते पूता यतिपतिपदाम्भोजभजन-
क्षणक्षीणक्लेशाः सदयहृदयाभाः सुकृतिनः ॥
 
[ चतुर्दशः
 
१०६
 
१०७
 
संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे ।
पप्रच्छैनं मातुलो भुक्तवन्तं किंखिच्छन्नं पुस्तकं शिष्यहस्ते ॥
टीका विद्वन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दत्तवांश्च ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धिं दृष्ट्वाऽऽनन्दीत् खेदपापच्च किञ्चित् ॥ १०८
प्रबन्ध निर्माणविचित्रनैपुणीं दृष्ट्वा प्रमोदं स विवेद किञ्चित् ।
मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥ १०९
गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यसूयोऽपि कृताभिनन्दः ॥ ११०
सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेsत्र जीवः ।
विद्वन् योगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥ १११
इत्युक्त्वा तैर्मातुलं मस्करीशः शिष्यैर्हृष्यन् सेतुमेष प्रतस्थे ।
प्रस्थातुः श्रीपद्मपादस्य जातं कष्टं चैष्यत्सुचनायै निमित्तम् ॥ ११२
वाम नेत्रं गन्तुरस्पन्दतैव बाहु: पुस्फोरापि वामस्तथोरुः ।
चुक्षावोचन्त कश्चित्पुरस्तात्तत्सर्वं द्राग्ज्ञांगणित्वा जगाम ॥
 
११३
 
sa ने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन गुरुपक्षहानि: ।
दग्धे जायेत महान प्रचारो नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ११४
पक्षस्य नाशाद्द्रहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्भुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ॥ ११५
ऐतिमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवक्तुः ॥ ११६