Proofing

This page has not been fully proofread.

सर्गः १४ ]
 
पद्मपादतीर्थयात्रावर्णनम्
 
सायंप्रातह्निकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च ।
 

 
145
 
९६
 
९७
 
नित्यं वर्णी वेदवाक्यान्यधीयन क्षुद्धवा शीघ्रं गेहिनो गेहमेति ॥ ९४
उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं सञ्जपन्वा यतात्मा ।
मध्येघस्रं जाठराग्नौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥ ९५
यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतम् ।
कर्तुस्तदर्थं ददतोऽन्नमर्थमिति स्मृतिः संववृतेऽनवद्या ॥
पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ।
विनाऽपि तत्कर्तृ निषेवणेन तीर्थादिसेवा बहुदुःखसाध्या ॥
गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिद्रलतोऽपि कश्चित् ॥
सन्तोषयेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् ।
तद्वेदविप्रे निवसन्ति देवा इति स्म साक्षाच्छ्रुतिरेव वक्ति ॥
स्वधर्मनिष्ठा विदिता खिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।
परोपकारवतिनो महान्त आयान्ति सर्वे गृहिणी गृहाय ॥
 
९८
 
९९
 
१००
 
गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थ सेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थ गृहमेव कीर्तितं धनी वदान्यः प्रवसेन कश्चन ॥ १०१
अन्तः स्थिता मृषकमुख्यजीवा बहिः स्थिता गोमृगपक्षिमुख्याः ।
जीवन्ति जीवाः सकलोपजीव्यस्तस्माद्गुही सर्ववरो मतो मे ॥ १०२
शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽवगम्यते ।
तच्चान्नमस्माक पर्मषु संस्थितं सर्व फलं गेहपतिदुपाश्रयम् ॥
ब्रवीमि भूयः शृणुताssदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।
संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥ १०४
विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥ १०५
 
१०३