2026-04-30 05:37:49 by ambuda-bot
This page has not been fully proofread.
144
श्रीमच्छङ्करदिग्विजये
[ चतुर्दशः
यथा हि पुष्पाण्यभिगम्य षट्पदाः संगृह्य सारं रसमेव भुञ्जते ।
तथा यतिः सारमवाप्नुत्रन सुखं गृहाद्गुहादोदनमेव भिक्षते ॥ ८३
यतेर्विरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् ।
विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४
मनोरथानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् ।
दारानी सुर्यत दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥ ८५
अनाप्नुवन् दुःखमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुनः ।
सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६
विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुर्महतां निषेवाम् ।
भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥
अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्ट्या जडवद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ॥ ८८
चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्मविद्याक्ष पितो रुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥
वस्तव्यमत्र कतिचिद्दिवसानि विद्वंस्त्वद्दर्शनं वितनुते मुदितादि भव्यम् ।
एष्यद्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे ॥
कोशं क्लेशमलस्य कास्यगृहमप्युदंड सामलयं
पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।
हिंसामांसलमाश्रिता घनधनाशंसानृशंसा वयं
८७
८९
वर्ज्य दुर्जनसङ्गमं करुणया शोध्या यतीन्दो त्वया ॥ ९१
संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।
इष्टसङ्गतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नरः ॥
मध्याह्नकाले क्षुधितस्तृषार्तः क मेऽन्नदातेति वदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुदार्तेः कस्तस्य पुण्यं वदितुं क्षमेत ॥
९२
९३