2026-04-30 05:37:49 by ambuda-bot
This page has not been fully proofread.
सर्गः १४ ]
पद्मपादतीर्थयात्रावर्णनम्
143
७१
७२
७३
रामसेतुगपनाय संदधे मानसं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् ॥
यत्पवित्र पुलिनस्थलं पय: सिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥
सह्यपर्वतसुतातिनिर्मलाम्भो भिषिक्त भगवत्पदाम्बुजे ।
आकलय्य बहुशिष्यसंवृतः प्रास्थिताभिरुचितस्थलाय सः ॥
गच्छन् गच्छन् मार्गमध्येऽभियातं गेहूं भिक्षुर्मातुलस्याऽऽजगाम ।
दृष्ट्रा शिष्यैस्तं चिरेणाभियातं मोदं प्रान्मातुलः शास्त्रवेदी ॥ ७४
शुश्राव तं बन्धुजनः सशिष्य स्वमातुलागारमुपेयिवांमम् ।
आगत्य दृष्ट्रा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥
रुरोद कश्चिन्मुमुदे कचिज्जहास पूर्वा वरितं बभाषे ।
कश्चित्प्रमोदातिशयेन किञ्चिद्वचः स्खलगी: प्रणनाम कश्चित् ॥
ऊचेऽथ तं ज्ञातिजनः प्रमोदी दृष्ट्वा चिरायाक्षिपथं गतोऽभूः ।
दिनक्षते त्वां जनताऽतिहादत्तथाऽपि शक्नोषि न वीक्षणाय ॥
पुत्राः समित्रान्न न बन्धुवर्गो न राजबाधा न च चोरभीतिः ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८
शाखोपशाखाञ्चितमेव वृक्षं वाघन्त आगत्य न तद्विहीनम् ।
यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म ॥ ७९
कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क देवताच क च तीर्थयात्रा क वा निषेवा महतां भवेन्नः ॥
अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतश्चिद्गुहमागतान्नः ।
कालोऽत्यगात्ते बहुर दैवात्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥
७५
७६
७७
८०
८१
यथा शकुन्ताः परवर्धितान् द्रुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परक्लृप्तान मठदेवतागृहान्यतिः समाश्रित्य तथोज्जति ध्रुवम् ॥ ८२