Proofing

This page has not been fully proofread.

सर्गः १४]
 
पद्मपादतीर्थयात्रावर्णनम्
 
गृहोपकण्ठेषु च वः श्मशानमद्यप्रभृत्यस्त्विति ताञ्शशाप ।
अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥
तदाप्रभृत्येव गृहोपकण्ठेष्वासीच्छ्मशानं किळ हन्त तेषाम् ।
महत्सु धीपूर्वकृतापराधो भवेत् पुनः कस्य सुखाय लोके ॥
शान्तः पुमानिति न पीडनमस्य कार्य
 
शान्तोऽपि पीडनवशात् क्रुधमुहेत् सः ।
शीतः सुखोऽपि मथितः किल चन्दनद्रु-
 
स्तीत्राहुताशजनको भवति क्षणेन ॥
 
यद्यप्यशास्त्रीयतया विभाति तेजखिनां कर्म तथाऽप्यनिन्द्यम् ।
 
141
 
५०
 
५१
 
५२
 
विनिन्द्यकृत्यं किल भार्गवस्य ददुः खपुत्रान् कतिचिद्वकाय ॥ ५३
 
इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां
 
पुन: पतनवर्जितामतनुसौख्यसंदोहिनीम् ।
यतिक्षितिपतिर्गतिं वितमसं स नीत्वा तत-
 
स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥
 
५४
 
अथ तत्सहाय जलजाङ्घयुपागमेच्छुरभीप्सितेऽत्र विलम्ब एषकः ।
जलाजाङ्घ्रिरथ पुरा निज ज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥ ५५
आससाद शनकैर्दिशे मुनिर्यस्य जन्म वसुधाघटी स्मृता ।
सा श्रुतिः सकलरोगनाशिनी योऽपिवज्जलधिमेक बिन्दुवत् ॥
अद्राक्षीरसुभगा हिभूषिततनुं श्रीकालहस्तीश्वरं
 
लिङ्गे सन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके ।
पार्वत्या करुणारसार्द्रमनसाऽष्टिं प्रमोदास्पदं
 
देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥
 
५६
 
५७
 
स्नात्वा सुवर्णमुखरी सलिलाशयेऽन्तर्गत्वा पुनः प्रणपति स्म शिवं भवान्या ।
आनचे भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥
लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात् काञ्ची क्षेत्रमागात् पवित्रम् ।
संसारान्धि संतितीर्षोः प्रसिद्धं वृद्धाः पाहुर्यद्धि लोके ह्यमुनि ॥ ५९