2026-04-30 05:37:48 by ambuda-bot
This page has not been fully proofread.
140
श्रीमच्छङ्करदिग्विजये
विलोक्य तापिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् ।
तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥
भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताङ्घ्रिपद्मम् ।
अभिवीजितमादरेण नीळावसुधाभ्यां चलमानचामराभ्याम् ॥
विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।
धृतमूर्तिभिरस्त्रदेवताभिः परितः पञ्चभिरञ्चितोपकण्ठम् ॥
महनीयतमालकोमलाङ्ग मुकुटीरत्नचयं महार्हयन्तम् ।
शिशिरेतर भानुशीलितायं हरिनीलोपलभूधरं हसन्तम् ॥
1
[ चतुर्दशः
३८
३९
४०
४१
४३
तत्तादृशं निजसुतोदितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि ।
चित्तेन कञ्जनयनं हृदि भावयन्ती तत्याज देहमवला किल योगिवत्सा ॥
ततः शरच्चन्द्रमरीचिरो चिर्विचित्र पारिप्लव के तनाढ्यम् ।
विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥
वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा मशशंस पुत्रम् ।
विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥
इयमर्चिरहर्बलक्षपक्षान् षडुदङ्माससमानिलार्कचन्द्रान् ।
चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥
स्वयमेव चिकीर्षुरेष मातुश्वरमं कर्म समाजुहाव बन्धून् ।
किमिहास्ति यते तत्राधिकारः कितवेत्येनममी निनिन्दुरुचैः ॥
1
४४
४५
४६
अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया ।
अथ कोपपरीनृतान्तरोऽसावखिलांस्तानशपच्च निर्ममेन्द्रः ॥ ४७
सञ्चित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ।
स दक्षिणे दोष्ण ममन्य वह्नि ददाह तां तेन च संयतात्मा ॥ ४८
न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः ।
इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच्च भिक्षा ॥
४९