Proofing

This page has not been fully proofread.

सर्गः १४ ]
 
पद्मपादतीर्थयात्रावर्णनम्
 
139
 
यदापदपदं सदा यतिवर स्थितं वस्तु त
 
न्मतं भज मितंपचान् मनसि मा कृथाः प्राकृतान् ।
कषायकलुषाशयक्षतिविनिर्वृतः सन्मतः
 
सुखी चर सुखे चिरात् स्फुरति संततानन्दता ॥ २७
इत्थं गुरोर्मुखगुहोदितवावसुधां तामापीय हृष्टहृदयः स मुनिः प्रतस्थे ।
प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः कालं कियन्तमनयत् सह शृङ्गकुधे ॥
अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अवलंबिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥
तत्राssai मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्रक्ष्य शरीरतापं जहौ निदाघात इवाम्बुदेन ॥
असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।
अम्बायमस्त्यत्र शुचं जहीहि प्रब्रूहि किं ते करवाणि कृत्यम् ॥
 
२९
 
३०
 
३१
 
दृष्ट्वा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली मया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥
इतः परं पुत्रक गात्रमेतद्वोढुं न शक्नोमि जराविशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् ॥ ३३
 
सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूपमेकम् ।
मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥
 
३४
 
उपादिश परं सनातनं न यत्र हस्ताङ्घ्रिविभागकल्पना ।
अन्तर्बहिः संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५
सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।
न बुद्धिमारोहति तत्त्वमात्रं यदेकमस्थूलमनण्वगोलम् ॥
 
निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।
वृत्तै भुजङ्गोपपदैः प्रसन्नः प्रस्थापयामास स च वदूतान् ॥
 
३६
 
३७