2026-04-30 05:37:48 by ambuda-bot
This page has not been fully proofread.
138
श्रीमच्छङ्करदिग्विजये
सुजन: सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः ।
परिपुष्टमतिर्विवेकवाञ्शनकैर्हेयगुणं विमुञ्चति ॥
[चतुर्दशः
१९
होऽस्ति तव तीर्थ निषेवणायां विघ्नो मयाऽत्र न खलु क्रियते पुमर्थे ।
चित्त स्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥
नैको मार्गों बहुजनपदक्षेत्र तीर्थानि यातां
चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि ।
विप्राग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष-
नो चेत्सार्धं परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥
सद्भिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना-
मध्यात्मैक्ये कथास्ता घटितबहुरसा: श्राव्यमाणाः प्रशान्तैः ।
कायक्लेशं विभिन्धुः सततभयभिदः श्रान्तविश्रामवृक्षाः
स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥
सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो
यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
खल्वासको वसतिसमये शर्मद: पूर्वकाले
मायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥
मार्गे यास्यन्न बहुदिवसान् पाथस: संग्रही स्या-
तस्मादोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् ।
प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे-
र्मूला भ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥
मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव
छन्नात्मानो बहुविधगुणैः संपरीक्ष्याः प्रयत्नात् ।
देवान् वस्त्रं लिखितमथवा दुविधा नेतुकामा
विश्वासोsaisपरिचितनृषु प्रोज्ज्ञनीयो न कार्यः ॥
मध्ये मार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्या: ।
२१
२२
२३
२४
२५
पूज्याः पूज्यास्तद्वयतिक्रान्तिरुया श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥ २६