Proofing

This page has not been fully proofread.

सर्गः १४ ]
 
पद्मपादतीर्थयात्रावर्णनम्
 
137
 
नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः ।
श्रेयानिति प्रथम संयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥
सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु ।
मार्गो हि विद्येत न सुव्यवस्थः सुखेन पुण्यं क्व नु लभ्यतेऽधुना ॥
जन्मान्तरार्जितमधं फलदानहेतो-
 
व्ययात्मना जनिमुपैति न नो विवादः ।
साधारणादिह च वा परदेशके वा
 
कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥
 

 
१३
 
इह स्थितं वा परतः स्थितं वा कालो न मुश्चेत् समयागतश्चेव ।
तदेशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११
मन्वादयो मुनिवराः खलु धर्मशास्त्रे धर्मादि संकुचितमाहुर तिमवृद्धम् ।
देशाद्यवेक्ष्य न तु तत्सरणि गतानां शौचाद्यतिक्रमकृतं प्रभवेदयं नः ॥
दैवेऽनुकूले विपिनं गतो वा समाप्नुयाद्वाञ्छितमन्नमेषः ।
aियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥
गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृर्ति पुरस्तात्तदागमादत्र च किं निमित्तम् ॥
देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ।
चित्तैकाय्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥
सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ।
क्षिणोत्यनर्थान् सुजनेन सङ्गमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥
 
१४
 
१५.
 
१६
 
अटाट्यमानोऽपि विदेशसङ्गतिं लभेत विद्वान् विदुषाऽभिसङ्गतिम् ।
बुध बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥ १७
समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद हृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥