2026-04-30 05:37:47 by ambuda-bot
This page has not been fully proofread.
136
श्रीमच्छङ्करदिग्विजये
[ चतुर्दशः
ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः ।
आतेनुर्जगति यथास्वमात्मतत्त्वाम्भोजार्कान् विशदतरान् बहू निबन्धान् ॥
इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः ।
संक्षेपशङ्करजये पूर्ण: सर्गस्त्रयोदशः ॥ १३ ॥
आदितः श्लोकाः 1387.
अथ चतुर्दशः सर्गः
॥ 28.11
पद्मपादतीर्थयात्रावर्णनम् ॥
अथाब्जपात् कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।
देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे वहुतीर्थयुक्तान् ॥
स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाङ्घ्रिजलं च तीर्थम् ।
गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥
शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥
द्विधा हि संन्यास उदीरितोऽयं विबुद्धतन्त्रस्य च तद्बुभुत्सोः ।
तत्पदार्थैक्य उदीरितोऽयं यत्नात्वमर्थः परिशोधनीयः ॥
संभाव्यते क च जलं क्व च नास्ति पाथः
शय्यास्थलं कचिदिहास्ति न च क चास्ति ।
शय्यास्थलीजल निरीक्षणसक्तचेताः
पान्थो न शर्म लभते कलुषीकृतात्मा ॥
ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।
स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥
स्नानं प्रभाते न च देवतार्चनं क्व चोक्तशौचं क्व च वा समाधयः ।
क चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ॥
१
२
३
४
५
६