Proofing

This page has not been fully proofread.

सर्गः १३]
 
ब्रह्मविद्याविचारा
 
135
 
सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्य निबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥
तवदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।
लद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥
 
तत्रोभयत्र कुरु वार्तिकमार्तिहारि
 
कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ।
 
माशङ्कि पूर्वमित्र दुःशठवाक्यरोधो
 
६६
 
मद्वाक्यमेव शरणं व्रजमा विचारीः ॥
 
६७
 
इत्थं स उक्तो भगवत्पदेन श्रीविश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरूगां ह्यविचारणीया ॥
 
६८
 
आज्ञा गुरोरनुचरैर्न हि लङ्घनीयेत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।
निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार ॥
सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टीकां व्यधितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥ ७०
व्यासर्विसूत्रनिचयस्य विवेचनाय टीकाभिधं विजयडिण्डिममात्मकीर्तेः ।
निर्माय पद्मचरणो निरवचयुक्तिदृन्धं मबन्धमकरोद्गुरुदक्षिणां सः ॥
आलोचयन्नथ तदानुगतिं ग्रहाणामृचे सुरेश्वरसमाह्वयमुपहरे सः ।
पञ्चैव वत्स चरणाः प्रथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥
 
प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं
 
वाचस्पतित्वमधिगम्य वसुन्धरायाम् ।
 
भव्यां विधास्यसितमां मम भाष्यटीका-
 
माभूतसंयमधिक्षिति सा च जीयात् ॥
 
इत्येवमुक्तवथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स हूत्वा ।
 
कुरुध्वमद्वैतपरान्निबन्धान्नित्यन्वशा निर्मम सार्वभौमः ॥
 
७३
 
७४