Proofing

This page has not been fully proofread.

131
 
श्रीमच्छङ्करदिग्विजये
 
[ त्रयोदशः
 
५५
 
नैष्कर्म्यसिद्धयाख्य निबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाssप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ॥
न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रबन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां नोलङ्घने स्याद्गुरुशिष्यभावः ॥
पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥ ५६
अहं गृही नात्र विचारणीयं किं तेन पूर्व मन एव हेतु: ।
बन्धे च मोक्षे च मनोविशुद्ध गृही भवेद्वाऽप्युत मस्करी वा ॥
नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्प्राप्तिनिवृत्तिगामिनौ ।
प्रतिश्रवौ नौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥ ५८
संभिक्षमाणा न लभन्त एवं चेद्रह्नप्रवेशं गुरुणा प्रवेशनम् ।

कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥ ५९
तच्चोपदेशाद्वितितात्मतत्वो व्यधामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु वादो हि तत्त्वस्य विनिर्णयाय ॥
 
पुरा गृहस्थेन मया प्रवन्धा नैयायिकादौ विहिता महार्थाः ।
 
५७
 
६०
 
इतः परं मे हृदयं चिकीर्षु वदङ्घ्रिसेवां न विलङ्घन्य किञ्चित् ॥ ६१
श्रद्धामद्वैतवद्धा दरबुधपरिषच्छेमुषीसं निषण्णा-
 
मर्वाग्दुर्वादिगर्वानलविपुलतरज्वालमालावलीढाम् ।
 
सिक्त्वा सूक्तामृतौघैरह परिहसञ्जीवयस्यद्य सद्यः
 
को वा सेवापटुः स्याद्रणतरणविधौ सद्गुरोनैव जाने ॥ ६२
 
इत्युक्त परते सुरेश्वरगुरौ तेनैव शारीरके
 
नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुनिं शनैः ।
धीरायः शमयन्विवेकपयसा देवेश्वरेण त्रयी-
 
भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभून्मुनिः ॥ ६३
भावानुकारिमृदुवाक्यनिवेशितार्थ स्त्रीयैः पदैः सह निराकुतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशितवत्स्वरूपं दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥