2026-04-30 05:37:47 by ambuda-bot
This page has not been fully proofread.
ब्रह्मविद्याविचारः
सर्गः १३]
सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।
न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नृनदीक्ष: ॥
133
४३
आदिश्येत्थं शिष्यस यतीन्द्रः प्रोवाचेत्थं नृत्रभिक्षु रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ॥४४
तात्पर्य ते गेहिधर्मेषु दृष्ट्रा तत्संस्कारं सांपतं शङ्कमानाः ।
भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ॥४५
नास्त्येवावापतुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्ध: ।
द्वारि द्वाःस्थैरिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥ ४६
इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे ।
स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ ४७
विद्वन् यद्वत्प्रत्ययः स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ।
इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किञ्चित् ॥ ४.८
शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-
वेनं स्वतन्त्र कृतिनिर्मितये न्ययुक्त ।
नैष्कर्म्यसिद्धिम चिराद्विदधत्स चेत्थं
न्याय्यामविन्दत सुरेश्वरदेशिकाख्याम् ॥
४९
नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्व विषयावगतिप्रधानाम् ।
आद्यन्तव्यपदबन्धवती मुदारामाद्यन्तमैक्षततरां परितुष्टचेताः ॥
५०
ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाssसीत्प्रत्ययस्तद्वदस्मिन् यच्चान्यस्तत्त्व विद्यः स नेति ॥ ५१
यत्राद्यापि श्रूयते मस्करीन्द्रैर्निष्कर्माऽऽत्मा यत्र नैष्कर्म्यसिद्धि: ।
तन्नाम्नाऽयं वधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकातोऽभूत् ॥ ५२
आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज ।
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥ ५३