Proofing

This page has not been fully proofread.

132
 
श्रीमच्छङ्करदिग्विजये
 
[त्रयोदशः
 
३१
 
३२
 
३३
 
३४
 
आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
प्रफुल्ल राजीववने विहारी कथं रमेत क्षुरके मरालः ॥
विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः ।
आ शैशवादात्मविलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥
श्रुत्वेति पप्रच्छुरमुं विनेयाः स्वामिन् विनैव श्रवणाद्युपायैः ।
अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥
तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती ।
बभूव सिद्ध: किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥
तस्यान्तिके काचन विकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षणं प्रतीक्षस्त्र शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥ ३५
अत्रान्तरे दैववशात्स बालश्चङ्क्रम्यमाणो निपपात नद्याम् ।
मृतं तमादाय शिशुं तदीयाश्चक्रन्दुरुचैः पुरतो महर्षेः ॥
आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्तखिन्नो निजयोगभूम्ना ।
प्राविशद पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥
तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्रमज्ञातमेतेन न किञ्चिदस्ति ॥
तत्तागात्मा च बहि:प्रवृत्तौ नियोगमहत्ययमत्र वृत्तौ ।
स मण्डनस्त्वर्हति बुद्धतच्चः सरस्वती साक्षिक सर्वविच्चः ॥
तत्तादृशात्युज्ज्वलकीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी ।
आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥
अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।
किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥
 
३६
 
३७
 
३८
 
३९
 
४०
 
४१
 
भवन्निदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकर्षो विदितो हि सर्वतः ॥ ४२