Proofing

This page has not been fully proofread.

सर्गः १३]
 
ब्रह्मविद्याविचार:
 
131
 
१९
 
२०
 
२२
 
२३
 
स एव युष्मच्चरणारविन्द सेवाविनिर्घृत समस्त भेदः ।
आजान सिद्धाऽर्हति सूत्रभाष्ये वृत्तिं विधातुं भगवन्नगाधे ॥
यद्वाऽयमानन्द गिरिर्यदुग्रतपःप्रसन्ना परमेष्ठिपत्नी 1
भवत्यवन्धेषु यथाभिसंधि व्याख्यान सामर्थ्यवरं दिदेश ॥
कर्मैकतानमतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः ।
भाष्यस्य पद्मपद एव करातु टीकामित्यू चिरे रहसि योगिवरं विधेयाः ॥
अत्रान्तरेऽभ्यर्णगतः स तूर्णं सनन्दनो वाक्यमुदाजहार ।
आचार्य हस्तामलकोsपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥
यतः करस्थामलकाविशेषं जानाति सिद्धान्तमसावशेषम् ।
अतो मुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥
वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदाबभाषे ।
नैपुण्यमन्यादृशस्य किन्तु समाहितत्वान्न बहिः वृत्तिः ॥
अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।
न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥
वालैर्न चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।
निश्चित्य भूतोपहतं तमेनमानिन्यिरेऽस्मन्निकटं कदाचित् ॥
अस्मानवेक्ष्येव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ।
इमामपूर्वी प्रकृतिं विलोक्य विसिष्मिये तत्र जनः समेतः ॥
कस्त्वं शिशोकस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः ।
आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्तपयैर्वचोभिः
तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।
पिता प्रपद्यस्य परं प्रहर्ष समश्रयां वाचमुवाच विज्ञः ।
जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्त्वम् ।
मज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥
 
२४
 
२५
 
२६
 
२७
 
11 २८
 
२९
 
३०