Proofing

This page has not been fully proofread.

130
 
श्रीमच्छङ्करदिग्विजये
 
[ त्रयोदशः
यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।
कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥
प्रत्येकस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनिजैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी ॥
गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः ।
तथाऽपि यद्यस्ति स पूर्वपक्ष: सिद्धान्तभावस्तु गुरूक्त एव ॥
 

 
आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इद्दानिशमेव कर्म ।
ब्रूते परांच कुरुतावहिताः प्रयत्नात् स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥
एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।
भष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥ ११
संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् ।
तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥ १२
यः शक्नुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।
यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥ १३
एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।
 
१५
 
एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्वन्धनमत्र किञ्चन ॥ १४
पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु ।
आकारयामास भवानशेषान् भक्तिं परिज्ञातुमिवास्मदीयाम् ॥
तदा तदाकर्ण्य समाकुलेषु नावर्थमस्मासु परिभ्रपत्सु ।
सनन्दनस्त्वेष वियत्तटित्या झरीमभिप्रस्थित एव तूर्णम् ॥
अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।
तुष्टा त्रिवर्मा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ॥
पदानि तेषु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा ।
ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पद्मपादम् ॥
 
१६
 
१७
 
१८