Proofing

This page has not been fully proofread.

सर्गः १३]
 
ब्रह्मविद्याविचारः
 
129
 
स्फारद्वारा द्विरदमदसमुल्लोलकल्लोलभृङ्गी-
सङ्गीतोलासभङ्गीमुखरितहरितः संपदोऽकिंपचानैः ।
निष्ठीव्यन्तेऽतिदुरादधिगत भगवत्पाद सिद्धान्तकाष्ठा-
निष्ठासम्पद्विजृम्भ निरवधिसुखद वात्मलाभै कलो भैः ॥ ८८
समिन्धानो मन्थाचलमथित सिन्धु दरभव-
सुधानानामृत रुचि नियेनात्मयशसा ।
निरुन्धानो दृष्ट्या परमहह पन्थानमसतां
पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिरा ॥
 
इति श्रीमाधवीये. तद्धस्तधान्यादिसंश्रयः ।
संक्षेपशङ्करजये सर्वोऽयं द्वादशोऽभवत् ॥ १२ ॥
आदितः श्लोकाः 1312.
 
अथ त्रयोदशः सर्गः 11 23 11
 
ब्रह्मविद्याविचारः ॥
 
८९
 

 
ततः कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुप्रात्मदेशम् ।
शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ॥
मम यत्करणीयमस्ति ते स्वमिमं मामनुज्ञाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जोवति भक्तिमान् गुरौ ॥
इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः ।
मत्स्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्तिकनामधेयम् ॥
द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः ।
तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निबन्धनाय ॥
अस्त्वेव मित्यार्यपदाभ्यनुज्ञामादाय मूर्ध्ना स विनिर्जगाम ।
अथाम्बुजार्दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ॥ ५
योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।
प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥