Proofing

This page has not been fully proofread.

128
 
श्रीमच्छङ्करदिग्विजये
 
तस्य गर्वमपहर्तुमख स्वाश्रयेषु करुणातिशयाच्च ।
व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाने ॥
सोऽधिगम्य तदनुग्रहमय्यं तत्क्षणेन विदिताखिलविद्यः ।
ऐट्ट देशिकवरं परतत्त्वव्यञ्जकैर्ललिततोटकवृत्तैः ॥
श्रीमदेशिकपादपङ्कजयुगी मूला तदेकाश्रया
तत्कारुण्यसुधावसेकसहिता तद्भक्तिसलरी ।
हृद्यं तोटक वृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं
लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥
येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं
निःश्रेणिः पदमुन्नतं जिगमिषोयम स्पृशन्ती परम् ।
वंश्या काप्यधरीकृत त्रिभुवनश्रेणी गुरूणां कथं
 
सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥
अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि ।
दययैव गुरोस्त्रयी शिरोऽर्थं स्फुटयन्नैक्षि विचक्षणः सतीयैः ॥
 
[ द्वादशः
 
७८
 
७९
 
८०
 
८१
 
८२
 
८३
 
अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरी धुरीणम् ।
जलजांघ्रिमुखाः सतीर्थ्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥
भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्य मुनीन्द्रम् ॥ ८४
अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्त्व निवेदनं यत् ॥ ८५
तोटकायमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि ।
पद्मपादसदृशप्रतिभावान् मुख्य शिष्यपदवीमपि लेभे ॥
 
मर्थाश्चत्वारः किमुत निगमा ऋक्पभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः ।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
 
विदुः शिष्यान हस्तामलकमुखराञ्छङ्करगुरोः ॥
 
८६
 
८७