2026-04-30 05:37:46 by ambuda-bot
This page has not been fully proofread.
सर्गः १२ ]
हस्तामलकादीनां शिष्यत्वेन ग्रहणम्
अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् ।
आकर्णनप्राप्यमहामर्थानादिष्ट विद्याग्रहणे समर्थान् ॥
127
६६
६७
६८
६९
७०
मन्दाक्षन कलयन्नशेषं पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयोर्विशेषं व्याचष्ट वाचस्पतिनिर्विशेषम् ॥
प्रकल्प्य तन्त्रेन्द्र विमान कल्पं प्रासादमाविष्कृतसर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः पूजामजाचैरपि पूजितायाः ॥
या शारदेत्यभिधां वहन्ती कृतां मतिज्ञां प्रतिपालयन्ती ।
अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥
चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति ॥
स्नात्वा पुरा क्षिपति कम्बलवत्रमुख्यैरुच्चासनं मृदु समं स ददाति नित्यम् ।
संलक्ष्य दन्तपरिशोधनकाष्ठमय्यं बाह्यादिकं गतवते सलिलादिकं च ॥
श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनको विदश्व छायेव देशिकमसौ भृशमन्वयाद्यः ॥ ७२
गुरोः समीपे न तु जातु जृम्भते प्रसारयन्नो चरणौ निषीदति ।
नोपेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥ ७३
तिष्ठन् गुरौ तिष्ठति संप्रयाते गच्छन् ब्रुवाणे विनयेन शृण्वन् ।
अनुच्यमानोऽपि हितं विधत्ते यच्चाहितं तच्च तनोति नास्य ॥ ७४
तस्मिन् कदाचन विनेयवरे स्वशाटी प्रक्षालनाय गतवत्यपवर्तनीगाः ।
व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विलम्ब एषः ॥
शान्तिपाठमथ कर्तुमसंख्येषूवतेषु स विनेयवरेषु ।
स्थीयतां गिरिरपि क्षणमात्रा देष्यतीति समुदीरयति स्म ॥
तां निशम्य निगमान्तगुरूक्ति मन्दधीरनधिकार्यपि शास्त्रे ।
किं प्रतीक्ष्यत इति स्म ह भित्तिः पद्मपादमुनिना समदर्शि ॥
७६
७७