Proofing

This page has not been fully proofread.

सर्गः १२]
 
हस्तामलकादीनां शिष्यत्वेन ग्रहणम्
 
125
 
४३
 
तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः ।
प्रवृत्तिशास्त्रकरतः सुबुद्धिरास्ते क्रतून्मीलितकीर्तिबृन्दः ॥
गावो हिरण्यं धरणी समग्रा सद्बान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः ॥ ४४
न वक्ति किंचिन्न शृणोति किंचित् ध्यायन्निवास्ते किल मन्दचेष्ट: ।
रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ॥
ग्रहग्रहात् किं जडवद्विचेष्टने किं वा स्वभावादुत पूर्वकर्मणः ।
संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥ ४६
शिष्यैः प्रशिष्यैर्वहुपुस्तभारैः समागतं कञ्चन पूज्यपादम् ।
शुश्राव तं ग्राममनिन्दितात्मा निनाय सूनुं निकटं स तस्य ॥ ४७
न शून्यस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्रवित् स्वयम् ।
सोपायनः प्राप गुरुं व्यशिक्षणत् फलं ननामास्य च पादपङ्कजे ॥ ४८
अनीनमतं च तदीयपादयोर्जडाकृतिं भस्मनिगूढवह्निवत् ।
सनोद तिष्ठत् पतितः पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ॥ ४९
उपात्तहस्तः शनकैरवाङ्मुखं तं देशिकेन्द्रः कृपयोदतिष्ठिपत् ।
उत्थापिते वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किंकृतम् ॥ ५०
 
वर्षाण्यतीयुर्भगवन्नमुष्य पञ्चाष्ट जातस्य विनाऽवबोधम् ।
नाध्यैष्ट वेदान लिखच्च नार्णानचीकरं चोपनयं कथञ्चित् ॥
 
५१
 
क्रीडापर : क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति ।
बालाः शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥ ५२
 
भुङ्गे कदाचिन्न तु जातु भुङ्गे स्वेच्छाविहारी न करोति चोक्तम् ।
तथापि रुष्टेन न ताड्यतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥ ५३
इतीरयित्वोपरते च विमे पप्रच्छ तं शङ्करदेशिकेन्द्रः ।
कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥ ५४