2026-04-30 05:37:45 by ambuda-bot
This page has not been fully proofread.
124
श्रीमच्छङ्करदिग्विजये
[ द्वादशः
३१
३२
३३
३४
३५
३६
अष्टोत्तरत्रिंशति याः कलास्ताः स्वर्ध्याः कलाः पञ्च निवृत्तिमुख्याः ।
तासापर्यम् तवाङ्घ्रिपद्मं विद्योतमानं विबुधा भजन्ते ॥
कालाग्निरूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽलान्यसमुत्सृजन्तीम् ।
ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥
ये प्रत्यभिज्ञातार विज्ञा धन्यास्तु ते प्राविदितां गुरुक्त्या ।
सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्युः ॥
आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्यैहिकभोगलुब्धाः ।
उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्वहिस्ते ॥
अनाहते देवि भजन्ति ये त्वामन्तः स्थितिस्त्वन्नगरे तु तेषाम् ।
शुद्धज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥
सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे खामनुसंदधानः ।
चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाञ्चति साधकेन्द्रः ॥
श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितैक्यम् ।
चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमादनुध्यायति साधकेन्द्रः ॥
इति तां वचनैः प्रपूज्य भैक्षौदनमात्रेण स तुष्टिपान कृतार्थ: ।
बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥ ३८
श्रयति स्म ततोऽग्रहारकं श्रीबलिसंज्ञं स कदाचन स्वशिष्यैः ।
अनुगेहहुता ग्निहोत्रदुग्धपसरत्पावनगन्धलोभनीयम् ॥
यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।
दृष्ट्वा द्विजातीन्निजकर्मनिष्ठान् दुरान्निषिद्धं त्यजतोऽममत्तान् ॥
यस्मिन् सहस्रद्वितयं जनानामग्न्याहितानां श्रुतिपाठकानाम् ।
सत्यवश्यं श्रुतिचोदितासु क्रियासु दक्षं मथितानुभावम् ॥
मध्ये वसन् यस्य करोति भूषां पिनाकपाणिगिरिजासहाय: ।
हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरूढः ॥ ४२
३७
३९
४०
४१