Proofing

This page has not been fully proofread.

सर्गः १२ ]
 
हस्तामलकादीनां शिष्यत्वेन ग्रहणम्
 
व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे ।
भूने सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥
'वृषाकपायीवरयोः सपर्यो वाचाऽतिमोचारसयेति तन्वन् ।
मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदनं प्रतस्थे ॥
अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररु ।
तदेकपुत्रौ द्विजदम्पती स दृष्ट्वा दयाधीनतया शुशोच ॥
अपारमश्ञ्चत्यथ शोकम स्मिन्नभूयतोच्चैरशरीरखावा ।
जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥
आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञः ।
जगत्तयीरक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥
इतीरयत्येव यतौ द्विजातेः सुतः सुखं सुप्त इवोदतिष्ठत् ।
समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥
रम्योपशल्यं कृतमालसालर सालहितालतमालशालैः ।
सिद्धिस्थलं साधकसम्पदां तन्मूकाम्बिकायाः सदनं जगाहे ॥
उच्चावचानन्दजवाष्पमुच्चैरुद्गीर्णरोमाञ्च मुदारभक्तिः ।
अम्बामिहापार कृपावलम्बां संभावयन्नस्तुत निस्तुलं सः ॥
पारेपरा पदपद्मभाः षष्टयुत्तरं ते त्रिशतं तु भासः ।
आविश्य वह्नयर्कसुधामरीची नालोकवन्त्यादधते जगन्ति ॥
अन्तश्चतुःषष्टचुपचारभेदैरन्तेव सत्काण्डपटपदानैः ।
आवहनाचैस्तव देवि नित्यमाराधनामादधते महान्तः ॥
अम्बोपचारेष्वधिसिन्धुषष्टि शुद्ध ज्ञयोः शुद्धदमेकमेकम् ।
सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥
आराधनं ते बहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वम् कदापि कुर्युनैव त्वदैक्यानुभवैकनिष्ठाः ॥
'वपाकपायी श्रीगर्यो:' इति निघण्टुः ।
 
123
 
१९
 
२०
 
२१
 
२२
 
२३
 
२४
 
२५
 
२६
 
२७
 
२८
 
२९
 
३०