2026-04-30 05:37:44 by ambuda-bot
This page has not been fully proofread.
122
3
श्रीमच्छङ्करदिग्विजये
2
[द्वादशः
भ्रमापनोदाय भिदावदानामद्वैतमुद्रा मिह दर्शयन्तौ ।
आराध्य देव हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥
वन्द्यं महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् ।
मैनं महः किंचन दिव्यमङ्गीकुर्वन् विभुर्ते कुशलानि कुर्यात् ॥
यो मन्दरागं दधदादितेयान सुधाभुजः स्माऽऽतनुते विषादी ।
स्वापद्विलोलोचितचारुमृर्ते कृपामपारां स भवान् विधत्ताम् ॥
उल्लासयन्यो महिमानमुचैः स्फुरद्वराहीशकलेवरोऽभूत् ।
तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुह सामरस्यम् ॥
समावहन केसरितां वरां यः सुरद्विषत्कुञ्जरमाजघान ।
प्रहलादमुल्ला सितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ॥
दैत्त बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसानः ।
तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं नः ॥
येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः संङ्गररङ्गभूमौ ।
नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ॥
विलासिनाऽलीकभवेन धाम्ना कामं द्विषन्तं स दशास्यमस्यन् ।
देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥
उत्तालकेतुः स्थिर धर्ममूर्तिर्हालाहलस्वीकरणोग्रकण्ठः ।
स रोहिणीशा निशचुम्न्यमाननिजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥
विनायकेनाऽऽकलिता हितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् ।
यः पूतनामोहक चित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥
पाठीनकेतोर्जयिने प्रतीत सर्वज्ञभावाय दयैकसी ।
प्रायः क्रतुद्वेषकृतादराय बोधैकधाम्ने स्पृहयामि भूने ॥
2
मेनाया इदम्, मीनस्येदम् । 'पक्षे, अविषादीति पदच्छेदः ।
९
१०
११
१२
१३
१४
१५
१६
१७
१८
3 के इति छेदः । वारिशब्दो बालकवाची । " दशेन्द्रियद्वारकं कामम् ।
● क्रियाविशेषणम् ।
7
'पूतनामा चासावूक चित्तवृत्तिश्च ।