Proofing

This page has not been fully proofread.

120
 
श्रीमच्छङ्करदिग्विजये
 
दितिजसूनुममुं व्यसनादितं सकृदरक्षदुदारगुणो भवान् ।
सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ।
 
[ एकादशः
 
सृजसि विश्वमिदं रजसाssवृतः स्थितिविधौ श्रितसत्व उदायुधः ।
अवसि तद्धरणे तमसाssवृतो हरसि देव तदा हरसंज्ञितः ॥
तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् ।
तव पदं खलु वाङ्मनसातिगं श्रुतिवचचकितं तव बोधकम् ॥
नरहरे तव नामपरिश्रवात् प्रमथगुह्यकदुष्टपिशाचकाः ।
अपसरन्ति विभोsसुरनायका न हि पुरः स्थितये प्रभवन्त्यमी ॥
त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य ।
त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥
हृतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ ।
एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥
द्रष्टुं न शक्या हि तवानुकम्पाही नैर्जनैर्निहुतकोटिशंषाम् ।
मूर्ति तदात्मन्नुपसंहरेमां पाहि त्रीलोकीं समतीतसीमाम् ॥
कल्पान्तोज्जृम्भमाणप्रमथपरिवृढमौढळालावह्नि-
 
६४
 
६५
 
६६
 
६७
 
६८
 
६९
 
७०
 
ज्ज्वालालीढ त्रिलोकीज नितचटचटाध्वानधिकारधुर्यः ।
मध्ये ब्रह्माण्डभाण्डोदरकुहरमनैकान्त्यदुःस्थामवस्थां
स्त्यानस्त्यानो ममायं दळयतु दुरितं श्रीनृसिंहाट्टहासः ॥ ७१
मध्ये व्यानद्धवातंधयवळनाधानमन्थान भूभृ-
 
न्मन्थेनोत्क्षिप्तदुग्धोदधिलहरिमिथः स्फालनाचारघोरः ।
कल्पान्तोभिद्ररुद्रोच्चतरडमरुकध्वानबद्धाभ्यसूयो
 
घोषोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहति नः ॥ ७२
 
क्षुन्दानो क्षु कल्पावधिसमयसमुज्जृम्भदम्भोदगुम्भ-
 
स्फूर्जभोलि संघस्फुरदुरुर टिताखर्वगर्व प्ररोहान् ।
 
क्रीडाको डेन्द्रघोणासरभसविसर द्वोरघूघरवश्री-
 
गम्भीरस्तेऽट्टहासो हर हर टहरे रहंसाऽहांसि हन्यात् ॥ ७३